||Sundarakanda ||

|| Sarga 65||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकाण्ड.
अथ पंचषष्टितमस्सर्गः॥

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्।
प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्॥1||

युवराजं पुरस्कृत्य सुग्रीव मभिवाद्य च।
प्रवृत्ति मथ सीतायाः प्रवक्तुमुपचक्रमे॥2||

रावणांतः पुरे रोधं राक्षसीभिश्च तर्जनम्।
रामे समनुरागं च यश्चायं समयः कृतः॥3||

एतदाख्यांति ते सर्वे हरयो रामसन्निधौ।
वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्॥4||

क्व सीता वर्तते देवी कथं च मयि वर्तते।
एतन्मे सर्व माख्यातं वैदेहीं प्रति वानर॥5||

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ।
चोदयंति हनूमंतं सीतावृत्तांत कोविदम्॥6||

श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः।
प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति॥7||

उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा।
समुद्रं लंघयित्वाऽहं शतयोजनमायतम्॥8||

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया।
तत्र लंकेति नगरी रावणस्य दुरात्मनः॥9||

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।
तत्र दृष्टा मया सीता रावणांतः पुरे सती॥10||

सन्न्यस्य त्वयि जीवंती रामा राममनोहरम्।
दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः॥11||

राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने।
दुःखमासाद्यते देवी तथाऽदुःखोचिता सती॥12||

रावणांतः पुरे रुद्धा राक्षसीभिः सुरक्षिता।
एकवेणीधरा दीना त्वयि चिंतापरायणा॥13||

अथश्शया विवर्णांगी पद्मिनीव हिमागमे।
रावणाद्विनिवृत्तार्था मर्तव्य कृतनिश्चया॥14||

देवी कथंचित् काकुत्‍स्थ त्वन्मना मार्गिता मया।
इक्ष्वाकु वंश विख्यातिं शनैः कीर्तयतानघा॥15||

स मया नरशार्दूल विश्वासमुपपादिता।
ततः संभाषिता देवी सर्वमर्थं च दर्शिता॥16||

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता।
नियतस्समुदाचारो भक्तिश्चास्यास्तथा त्वयि॥17||

एवं मया महाभागा दृष्टा जनक नंदिनी।
उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ॥18||

अभिज्ञानं च मे दत्तं यथावृत्तं तवांतिके।
चित्रकूटे महाप्राज्ञ वायसं प्रति राघव॥19||

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया।
अखिलेनेह यद्दृष्टम् इति मां आह जानकी॥20||

अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः।
ब्रुवता वचना न्येवं सुग्रीव स्योपशृण्वतः॥21||

एष चूडामणिः श्रीमान् मया सुपरिरक्षितः।
मनश्शिलायाः तिलकम् गण्डपार्श्वे विवेशितः ॥22||

त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि।
एष निर्यातितः श्रीमान् मया ते वारिसंभवः॥23||

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वा मिवानघ।
जीवितं धारयिष्यामि मासं दशरथात्मज॥24|

ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता।
इति मामब्रवीत् सीता कृशांगी धर्मचारिणी॥25||

रावणांतः पुरे रुद्धा मृगी वोत्फुल्ललोचना।
एत देव मयाऽऽख्यातं सर्वं राघव यद्यथा॥26||

सर्वथा सागरजलेसंतारः प्रविधीयताम्॥27||

तौ जाताश्वासौ राजपुत्रौ विदित्वा
तच्चाभिज्ञानं राघवायप्रदाय।
देव्या चाख्यातं सर्वमेवानुपूर्व्या
द्वाचा संपूर्णं वायुपुत्त्रः शशंस॥28||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पंचषष्टितमस्सर्गः॥

|| Om tat sat ||